श्रीजगन्नाथसहस्रनामस्तोत्रम् (क्रमशः)
मत्स्यः कूर्मो वराहश्च नरसिंहश्च वामनः ।
परशुरामो महावीर्यो रामो दशरथात्मजः ॥ ३१॥
देवकीनन्दनः श्रेष्ठो नृहरिर्नरपालकः ।
वनमाली देहधारी पद्ममाली विभूषणः ॥ ३२॥
मल्लिकामालधारी च जातीयूथिप्रियः सदा ।
बृहत्पिता महापिता ब्राह्मणो ब्राह्मणप्रियः ॥ ३३॥
कल्पराजः खगपतिर् देवेशो देववल्लभः ।
परमात्मा बलो राज्ञां माङ्गल्यं सर्वमङ्गलः ॥ ३४॥
सर्वबलो देहधारी राज्ञां च बलदायकः ।
नानापक्षिपतङ्गानां पावनः परिपालकः ॥ ३५॥
वृन्दावनविहारी च नित्यस्थलविहारकः ।
क्षेत्रपालो मानवश्च भुवनो भवपालकः ॥ ३६॥
सत्त्वं रजस्तमोबुद्धिर् अहंकारपरोऽपि च ।
आकाशाङ्गः रविः सोमो धरित्री धरणीधरः ॥ ३७॥
निश्चिन्तो योगनिद्रश्च कृपालुः देहधारकः ।
सहस्रशीर्षा श्रीविष्णुः नित्यो जिष्णुर्निरालयः ॥ ३८॥
कर्ता हर्ता च धाता च सत्यदीक्षादिपालकः ।
कमलाक्षः स्वयम्भूतः कृष्णवर्णो वनप्रियः ॥ ३९॥
कल्पद्रुमः पादपारिः कल्पकारी स्वयं हरिः ।
देवानां च गुरुः सर्व-देवरूपो नमस्कृतः ॥ ४०॥
निगमागमचारी च कृष्णगम्यः स्वयंयशः ।
नारायणो नराणां च लोकानां प्रभुरुत्तमः ॥ ४१॥
जीवानां परमात्मा च जगद्वन्द्यः परो यमः ।
भूतावासः परोक्षश्च सर्ववासी चराश्रयः ॥ ४२॥
भागीरथी मनोबुद्धिर् भवमृत्युः परिस्थितः ।
संसारप्रणयी प्रीतः संसाररक्षकः सदा ॥ ४३॥
नानावर्णधरो देवो नानापुष्पविभूषणः ।
नन्दध्वजो ब्रह्मरूपो गिरिवासी गणाधिपः ॥ ४४॥
मायाधरो वर्णधारी योगीशः श्रीधरो हरिः ।
महाज्योतिर्महावीर्यो बलवांश्च बलोद्भवः ॥ ४५॥
भूतकृत् भवनो देवो ब्रह्मचारी सुराधिपः ।
सरस्वती सुराचार्यः सुरदेवः सुरेश्वरः ॥ ४६॥
अष्टमूर्तिधरो रुद्रः इच्छामूर्तिः पराक्रमः ।
महानागपतिश्चैव पुण्यकर्मा तपश्चरः ॥ ४७॥
दिनपो दीनपालश्च दिव्यसिंहो दिवाकरः ।
अनभोक्ता सभोक्ता च हविर्भोक्ता परोऽपरः ॥ ४८॥
मन्त्रदो ज्ञानदाता च सर्वदाता परो हरिः ।
परर्द्धिः परधर्मा च सर्वधर्मनमस्कृतः ॥ ४९॥
क्षमादश्च दयादश्च सत्यदः सत्यपालकः ।
कंसारिः केशिनाशी च नाशनो दुष्टनाशनः ॥ ५०॥
पाण्डवप्रीतिदश्चैव परमः परपालकः ।
जगद्धाता जगत्कर्ता गोपगोवत्सपालकः ॥ ५१॥
सनातनो महाब्रह्म फलदः कर्मचारिणाम् ।
परमः परमानन्दः परर्द्धिः परमेश्वरः ॥ ५२॥
शरणः सर्वलोकानां सर्वशास्त्रपरिग्रहः ।
धर्मकीर्तिर्महाधर्मो धर्मात्मा धर्मबान्धवः ॥ ५३॥
मनःकर्ता महाबुद्धिर् महामहिमदायकः ।
भूर्भुवः स्वो महामूर्तिः भीमो भीमपराक्रमः ॥ ५४॥
पथ्यभूतात्मको देवः पथ्यमूर्तिः परात्परः ।
विश्वाकारो विश्वगर्भः सुरामन्दो सुरेश्वरः ॥ ५५॥
भुवनेशः सर्वव्यापी भवेशः भवपालकः ।
दर्शनीयश्चतुर्वेदः शुभाङ्गो लोकदर्शनः ॥ ५६॥
श्यामलः शान्तमूर्तिश्च सुशान्तश्चतुरोत्तमः ।
सामप्रीतिश्च ऋक्प्रीतिर् यजुषोऽथर्वणप्रियः ॥ ५७॥
श्यामचन्द्रश्चतुर्मूर्तिः चतुर्बाहुश्चतुर्गतिः ।
महाज्योतिर्महामूर्तिर् महाधामा महेश्वरः ॥ ५८॥
अगस्तिर्वरदाता च सर्वदेवपितामहः ।
प्रह्लादस्य प्रीतिकरो ध्रुवाभिमानतारकः ॥ ५९॥
मण्डितः सुतनुर्दाता साधुभक्तिप्रदायकः ।
ओङ्कारश्च परंब्रह्म ॐ निरालम्बनो हरिः ॥ ६०॥
सद्गतिः परमो हंसो जीवात्मा जननायकः ।
मनश्चिन्त्यश्चित्तहारी मनोज्ञश्चापधारकः ॥ ६१॥
ब्राह्मणो ब्रह्मजातीनाम् इन्द्रियाणां गतिः प्रभुः ।
त्रिपादादूर्ध्वसम्भूतो विराटश्च सुरेश्वरः ॥ ६२॥
परात्परः परः पादः पद्मस्थः कमलासनः ।
नानासन्देहविषयः तत्त्वज्ञानाभिनिवृतः ॥ ६३॥
सर्वज्ञश्च जगद्बन्धुः मनोजज्ञातकारकः ।
मुखसम्भूतविप्रस्तु बाहुसम्भूतराजकः ॥ ६४॥
ऊरोवैश्यः पदोभूतः शूद्रो नित्योपनित्यकः ।
ज्ञानी मानी वर्णदश्च सर्वदः सर्वभूषितः ॥ ६५॥
अनादिवर्णसन्देहो नानाकर्मोपरिस्थितः ।
शुद्धादिधर्मसन्देहो ब्रह्मदेहः स्मिताननः ॥ ६६॥
शम्बरारिर्वेदपतिः सुकृतः सत्त्ववर्धनः ।
सकलं सर्वभूतानां सर्वदाता जगन्मयः ॥ ६७॥
सर्वभूतहितैषी च सर्वप्राणिहिते रतः ।
सर्वदा देहधारी च बटको बटुगः सदा ॥ ६८॥
सर्वकर्मविधाता च ज्ञानदः करुणात्मकः ।
पुण्यसम्पत्तिदाता च कर्ता हर्ता तथैव च ॥ ६९॥
सदा नीलाद्रिवासी च नतास्यश्च पुरन्दरः ।
नरो नारायणो देवो निर्मलो निरुपद्रवः ॥ ७०॥
ब्रह्माशम्भुः सुरश्रेष्ठः कम्बुपाणिर्बलोऽर्जुनः ।
जगद्धाता चिरायुश्च गोविन्दो गोपवल्लभः ॥ ७१॥
देवो देवो महाब्रह्म महाराजो महागतिः ।
अनन्तो भूतनाथश्च अनन्तभूतसम्भवः ॥ ७२॥
समुद्रपर्वतानां च गन्धर्वाणां तथाश्रयः ।
श्रीकृष्णो देवकीपुत्रो मुरारिर्वेणुहस्तकः ॥ ७३॥
जगत्स्थायी जगद्व्यापी सर्वसंसारभूतिदः ।
रत्नगर्भो रत्नहस्तो रत्नाकरसुतापतिः ॥ ७४॥
कन्दर्परक्षाकारी च कामदेवपितामहः ।
कोटिभास्करसंज्योतिः कोटिचन्द्रसुशीतलः ॥ ७५॥
कोटिकन्दर्पलावण्यः काममूर्तिर्बृहत्तपः ।
मथुरापुरवासी च द्वारिको द्वारिकापतिः ॥ ७६॥
वसन्तऋतुनाथश्च माधवः प्रीतिदः सदा ।
श्यामबन्धुर्घनश्यामो घनाघनसमद्युतिः ॥ ७७॥
अनन्तकल्पवासी च कल्पसाक्षी च कल्पकृत् ।
सत्यनाथः सत्यचारी सत्यवादी सदास्थितः ॥ ७८॥
चतुर्मूर्तिश्चतुर्बाहुः चतुर्युगपतिः प्रभुः ।
रामकृष्णो युगान्तश्च बलभद्रो बलो बली ॥ ७९॥
लक्ष्मीनारायणो देवः शालग्रामशिलाप्रभुः ।
प्राणोऽपानः समानश्च उदानव्यानौ तथैव च ॥ ८०॥
पञ्चात्मा पञ्चतत्त्वं च शरणागतपालकः ।
यत्किञ्चिद्दृश्यते लोके तत्सर्वं जगदीश्वरः ॥ ८१॥
जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ।
जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ।
जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ॥
॥ इति श्रीजगन्नाथसहस्रनामस्तोत्रम् ॥
एवं नामसहस्रेण स्तवोऽयं पठ्यते यदि ।
पाठं पाठयते यस्तु शृणुयादपि मानवः ॥ १॥
सहस्राणां शतेनैव यज्ञेन परिपूज्यते ।
यत्पुण्यं सर्वतीर्थेषु वेदेषु च विशेषतः ॥ २॥
तत्पुण्यं कोटिगुणितम् अचिराल्लभते नरः ।
जगन्नाथस्य नामानि पुण्यानि सफलानि च ॥ ३॥
विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् ।
कन्यार्थी लभते कन्यां जयार्थी लभते जयम् ॥ ४॥
कामार्थी लभते कामं पुत्रार्थी लभते सुतम् ।
क्षत्रियाणां प्रयोगेण संग्रामे जयदः सदा ॥ ५॥
वैश्यानां सर्वधर्मः स्यात् शूद्राणां सुखमेधते ।
साधूनां पठतो नित्यं ज्ञानदः फलदस्तथा ॥ ६॥
नापवादं न दुःखं च कदा च लभते नरः ।
सर्वसौख्यं फलं प्राप्य चिरञ्जीवी भवेन नरः ॥ ७॥
शृणु राजन् महाबाहो महिमानं जगत्पतेः ।
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ८॥
जगन्नाथं लोकनाथं पठते यः सदा शुचिः ।
कलिकालोद्भवं पापं तत्क्षणात्तस्य नश्यति ॥ ९॥
इति श्रीब्रह्मपुराणे भीष्म-युधिष्ठिर-संवादे श्रीजगन्नाथसहस्रनामस्तोत्रं समाप्तम् ॥
- Get link
- X
- Other Apps
- Get link
- X
- Other Apps
Comments
Post a Comment