श्रीजगन्नाथसहस्रनामस्तोत्रम् (क्रमशः) मत्स्यः कूर्मो वराहश्च नरसिंहश्च वामनः । परशुरामो महावीर्यो रामो दशरथात्मजः ॥ ३१॥ देवकीनन्दनः श्रेष्ठो नृहरिर्नरपालकः । वनमाली देहधारी पद्ममाली विभूषणः ॥ ३२॥ मल्लिकामालधारी च जातीयूथिप्रियः सदा । बृहत्पिता महापिता ब्राह्मणो ब्राह्मणप्रियः ॥ ३३॥ कल्पराजः खगपतिर् देवेशो देववल्लभः । परमात्मा बलो राज्ञां माङ्गल्यं सर्वमङ्गलः ॥ ३४॥ सर्वबलो देहधारी राज्ञां च बलदायकः । नानापक्षिपतङ्गानां पावनः परिपालकः ॥ ३५॥ वृन्दावनविहारी च नित्यस्थलविहारकः । क्षेत्रपालो मानवश्च भुवनो भवपालकः ॥ ३६॥ सत्त्वं रजस्तमोबुद्धिर् अहंकारपरोऽपि च । आकाशाङ्गः रविः सोमो धरित्री धरणीधरः ॥ ३७॥ निश्चिन्तो योगनिद्रश्च कृपालुः देहधारकः । सहस्रशीर्षा श्रीविष्णुः नित्यो जिष्णुर्निरालयः ॥ ३८॥ कर्ता हर्ता च धाता च सत्यदीक्षादिपालकः । कमलाक्षः स्वयम्भूतः कृष्णवर्णो वनप्रियः ॥ ३९॥ कल्पद्रुमः पादपारिः कल्पकारी स्वयं हरिः । देवानां च गुरुः सर्व-देवरूपो नमस्कृतः ॥ ४०॥ निगमागमचारी च कृष्णगम्यः स्वयंयशः । नारायणो नराणां च लोकानां प्रभुरुत्तमः ॥ ४१॥ जीवानां परमात...
Through this forum I will attempt to share as much authentic information as possible about "Hinduism", "Vedic Traditions" and "Sanatana Dharma"'; in quotes as they lack a specific name. I will present translations of scriptures, sooktAs, and stotras; bring debates and discussions from other forums; shed some light on some of the misconceptions of Hindu thought; and expose miscreants who hope to malign the glorious dharma. Your comments and feedback are welcome.