Shanti mantrAs
ॐ ……….. ॐ ……….. ॐ ………..
ॐ नमो भगवते वासुदेवाय | ॐ नमो भगवते वासुदेवाय | ॐ नमो भगवते वासुदेवाय
ॐ सहनाववतु | सह नौ भुनक्तु | सह वीर्यं करवावहै | तेजस्विनावधीतमस्तु मा विद्विषावहैॐ शान्तिः शान्तिः शान्तिः॥ - Taittiriya and Katha Upanishad
ॐ शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा। शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः। नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि। त्वामेव प्रत्यक्षम् ब्रह्म वदिष्यामि। ॠतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु। तद्वक्तारमवतु। अवतु माम्। अवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः॥ - Taittiriya Upanishad
ॐ भद्रं कर्णेभिः श्रृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवाग्ंसस्तनूभिः। व्यशेम देवहितम् यदायुः। स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शान्तिः शान्तिः शान्तिः॥ - Mundaka, Māndukya and Prashna Upanishads
ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ - Bṛhadāraṇyaka Upaniṣad (1.3.28)
ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः | पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ - Yajurveda 36.17
आ ब्रह्यन् ब्राह्मणो बह्मवर्चसी जायताम् | आ राष्ट्रे राजन्यः शूर इषव्यः अति | व्याधी महारथो जायताम् दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः | पुरंध्रिर्योषा जिष्णू रथेष्ठाः सभेयो | युवाअस्य यजमानस्य वीरो जायतां | निकामे निकामे नः पर्जन्यो वर्षतु | फलवत्यो न ओषधयः पच्यन्ताम् | योगक्षेमो नः कल्पताम् || – शुक्ल यजुर्वेद ; अध्याय २२, मन्त्र २२ | Vaidika Rashtra Geetam
ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते || ॐ शान्तिः शान्तिः शान्तिः || - Isha and Brihadaranyaka Upanishad
शुभं करोति कल्याणमारोग्यं धनसंपदा । शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते ॥ दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः । दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ॥
Hare Krishna Mahamantra
ॐ ……….. ॐ ……….. ॐ ………..
|| ॐ || श्री गुरुभ्यो नमः हरिः || ॐ ||
श्रीमद्भगवद्गीता पारायण - ध्यानश्लोकाः
ॐ श्री परमात्मने नमः | अथ गीता ध्यान श्लोकाः
ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीं
अम्ब त्वां अनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥
नमोऽस्तुते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र । येन त्वया भारत तैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥
प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये । ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥
सर्वोपनिषदो गावः दोग्धा गोपालनन्दनः । पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥
भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ॥
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं
नानाख्यानककेसरं हरिकथा सम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमल प्रध्वंसिनः श्रेयसे ॥
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥
यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ।
ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनः
यस्यान्तं न विदुस्सुरासुरगणाः देवाय तस्मै नमः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे । नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे॥
गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् । विष्णोः पदमवाप्नोति भयशोकादि वर्जितः ॥
एकं शास्त्रं देवकीपुत्रगीतं एको देवो देवकीपुत्र एव । एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॥
॥ ॐ श्री कृष्णाय परमात्मने नमः ॥
Comments
Post a Comment